संस्कृतगङ्गेयम्पुरा कदाचिदिह भारतेऽजस्रम्प्रवहन्ती पुनरपि जगद्धितायाऽमरलोकादवतारणीयेत्यभिज्ञयैवायम्प्रयासः। इदं (सारस्वत-निकेतनमित्याख्यं जालपुटं संस्कृत-प्रेमिभि: संस्कृत-प्रेम्णा संस्कृत-प्रेमिणां कृते निर्मितम्। अतो यदि भवति संस्कृत-प्रेम अस्ति तर्हीदम्भवत एव संस्कृत-प्रेम-मात्रमपेक्षते तु पाण्डित्यम् आयान्तु, वत्सा इव संस्कृतकपिलाम्प्रति पुनरपप्युन्मुखो भवाम। तदैव वयम्भारतीयास्संस्कृत-मातुर्दिव्यपयसा पुन पुष्टम्भारतम्परमवैभवम्प्रापयन्तो विश्व-कल्याणं सिसाधयिष्याम: जालपुटेऽस्मिन् सर्वे संस्कृत-प्रेमिण एकत्रीभविष्यन्ति संस्कृत-गीतानि, संस्कृत-नाटकानि, संस्कृत-साहित्यम्, चर्चा:,संस्कृत-लेखनम्, पठनम्, तथा यद्यद्वयञ्चिन्तयितुं शक्नुमस्तत्तदत्र मिलित्वा कर्तुं शक्यतेति एव अस्माकं दृष्टिरस्ति सर्वेऽप्यनेन जालपुटमाध्यमेन सोत्साहं संस्कृत-संवर्धनाय कार्यरतो भविष्यन्तीति विश्वासेनेदमाह्नवानम् सारस्वत-निकेतनमित्यन्तर्गतविविधजालपुटानामन्वितिरस्ति प्रकारान्तरेणेदं सारस्वत-निकेतनमित्याख्यं जालपुटङ्केन्द्रीयजालपुटरूपे विद्यते।

 

 

 

 

 

मङ्गलसन्देशः॥

[मङ्गलसन्देशप्रेषणम्- Send your मङ्गलसन्देश to us- jahnavisanskritjournal@gmail.com

]

 

ज्ञानपीठ-पद्मश्री-राष्ट्रपतिसम्मानपुरस्कृतः, महामहोपाध्यायः, विद्यावाचस्पतिः, विद्यामार्तण्डः, प्रो० सत्यव्रत शास्त्री

 

अद्यतनयुगे संस्कृतप्रसाराय प्रचाराय कञ्चन नवीन पन्थानम् आश्रयन्ति संस्कृतविद्वांसः तं वयं सुतराम् अभिनन्दामः.....

संस्कृतक्षेत्रेऽपि उपयोगमानीयमानोऽयं पन्थाः सर्वेषां हिताय स्यात् इति नात्र कश्चन संदेहः जाह्नव्याः प्रकाशनम् एतद्दिशायां सर्वथा अभनन्दनार्हम् इति नापेक्ष्यते बहु वचः

 

श्रीश्रीसुगुणेन्द्रतीर्थश्रीपादाः, उडुपि श्रीपुत्तिगे मठम्, जगद्गुरु-श्रीमध्वाचार्य-मूलमहासंस्थानम्,  उडुपि, कर्णाटकम्

 

इयं जाह्नवी नाम ज्ञानगङ्गा त्रिपथगा इव संस्कृताभिमानिनां कर्णेषु प्रवहतु संस्कृतं गङ्गेति प्रत्यक्षमुपायनद्वयं देवलोकात् भूमेः कृते उभयमपि भुक्तिमुक्तिदं पापनाशकम् संस्कृतशब्दानां अर्थानाञ्च संबन्धः औत्सर्गिकः गङ्गायां पापनाशकत्वशक्तिरपि औत्सर्गिकी अन्यनदीनां मध्ये गङ्गायाः स्थानं यथा तथैव अन्यभाषाणां मध्ये संस्कृतस्य सोऽयं सन्देशः विश्वगुरुश्रीमध्वाचार्याणाम् अङ्गुलिद्वयसन्देश इवाऽऽभाति अस्तु अन्यत् सर्वमप्रत्यक्षम् प्रत्यक्षं गङ्गाद्वयं स्वीकुर्मः बिहारतः प्रवहमाणे अस्मिन् गङ्गाद्वये सर्वे संस्कृतज्ञाः विहरन्तु जाह्नवी जगद्व्यापिनी भूयात्

 

संस्कृत वार्ताः, दूरदर्शन दिल्ली, 10 फरवरी, 2011, 06:55 प्रातः

 

वर्तमानप्रौद्योगिकयुगे संस्कृतवाङ्मयस्य प्रसारार्थं जाह्नवीति अन्तर्जालशोधपत्रिकायाः महत्प्रभावो वर्तते......

 

बी० के महापात्र, कुलसचिव, श्री लालबहादुर राष्ट्रीय संस्कृत विद्यापीठ विद्यापीठ नई दिल्ली

 

दुनियाभर में किये जा रहे शोधों को इण्टरनेट के जरिये प्रसारित करने मे संस्कृत पत्रिका जाह्नवी का खास योगदान है।

 

प्रो० कमला भारद्वाज, श्री लालबहादुर राष्ट्रीय संस्कृत विद्यापीठ नई दिल्ली

जनसंचार माध्यमों मे संस्कृत भाषा और शोध के प्रचार प्रसार  के लिये जाह्नवी पत्रिका आज के समय की मांग है।

 

मिश्रोऽभिराजराजेन्द्रः पूर्वकुलपतिः, म्पूर्णानन्द संस्कृतविश्वविद्यालयः, , वाराणसी

 

यद्यपि संस्कृतमाहात्म्यवशीकृतचेतनाः पाश्चात्या विपश्चितः प्रागेव तां विश्वभाषां घोषितवन्तः परन्तु सा खलु घोषणा सार्थवती जाता मिथस्सम्वादहीनतया सम्प्रति जाह्नव्याः प्रकाशनेन खलूक्तयो याथार्थ्यं सार्थकताञ्च भजत इत्यहं मन्ये...

 

प्रो० हरेकृष्णशतपथी, कुलपतिः, राष्ट्रीय संस्कृत विद्यापीठम् मानित विश्वविद्यालयः, तिरुपतिः

एषा पत्रिका उत्तरोत्तरं वृद्धिं गच्छेत् इति भगवतः सप्ताचलाधिपतेः श्रीश्रीवेङ्कटनायकस्य पवित्रचरणकमलतले सन्ततं प्रार्थये

 

डा० सत्यनारायण आचार्यः, उपाचार्यः विभागमुख्यश्च, साहित्यसंस्कृतिसंकायः, राष्ट्रीय संस्कृतविद्यापीठम् मानित विश्वविद्यालयः, तिरुपतिः

अत्याधुनिकयुगेऽस्मिन्…. अनया प्रचेष्टया  समस्याह्वानं प्रत्यक्षीकृत्य संस्कृत शिक्षायाः द्रुतविकासाय नूतन साहित्याभिवृद्धये नूनं समर्था भवेम वयम् इति

 

Prof. Himanshu Pota,  Professor,  Australia

On behalf of all Sanskrit lovers in Australia I convey my best wishes on the launch of an important Sanskrit publication – Jahnavi

My expectations from this journal are great and I feel confident that young India will meet these expectations and more.

 

प्रो. चौडुरी उपेन्द्र राव, सहाचार्यः, विशिष्टसंस्कृताध्य्नकेन्द्रम्, जवाहरलालनेहरुविश्वविद्यालयः, नव देहली

संस्कृ ज्ञान-विज्ञान संवाहकम् शुद्धबुद्धिसंवर्द्धकम् अजरामरं संस्कृतम् बहुप्राचीनमपि नित्यनूतनम् एतादृशस्य संस्कृतस्य यद्यपि बहव्यः पत्रिका कार्यरतास्सन्ति तथापि  अन्तर्जालीयसंस्कृतपत्रिकाभावेन विश्वस्य विविधेषु राष्ट्रेषु  विद्यमानाः संस्कृत प्रियाः हतोत्साहिनो भवन्तीति धिक् एतादृशीं न्यूनतां दूरी कर्तुं….जाह्नवीपत्रिका अभूतपूर्वं योगदानं करोतीति.

 

Dr. K.E. Dharaneedharan, Siromani Nyay, Reader & Head Dpt  Sanskrit, Pondicherry University

 

जाह्नवी नाम्ना जालयन्त्रद्वारा प्रसारिता पत्रिका रसभरनमिताङ्गी नानातन्त्रतत्वबिन्दुभरा विद्वन्मनोरंजनचातुरी प्रसन्नपदगम्भीरा गीर्वाणभारती सुरताभ्युदय विधात्री प्रतिभोन्मुखारंजयतु

 

प्रो० सुखदेव भोई, Dean sahity & sanskriti, LBS Deemd University Delhi

 

संस्कृत प्रचार-प्रसाराय शोधक्षेत्रे योगदानाय प्रकाश्यमानां जाह्नवीं ज्ञात्वा मोमुद्यते मे मनः…. वस्तुतः संस्कृते  विद्यमानानां विषयाणां नूतनतथ्यात्मकरूपेण  जाह्नवी इति पत्रिकाप्रकाशनं  एकं श्लाघ्यं कार्यं विद्यते

 

डा. सत्येन्द्र कुमार मिश्र, सम्पादक, विश्वपंचांग, काशी हिन्दू विश्वविद्यालय, वाराणसी

नवनवोन्मेषी यह जाह्नवी शोधपत्रिका संस्कृतजगत में निर्वाध निस्सरित होती रहे यह मेरी शुभकामना है

 

प्रो० चन्द्रमा पाण्डेय, ज्योतिष विभाग, काशी हिन्दू विश्वविद्यालय, वाराणसी

जाह्नवी पत्रिका का सम्पादन विषय का गाम्भीर्य एवं संस्कृत के जिज्ञासुओं के लिये एक महत्वपूर्ण कार्य है……..

 

प्रो० रमेशचन्द्रपण्डाः,  संकायप्रमुखः , काशीहिन्दूविश्वविद्यालयः

एतादृशनां संस्कृतच्छात्राणां सत्प्रयासेन संस्कृतस्य प्रचारः प्रसारश्चावश्यं भविष्यत इति मे विश्वासः

 

प्रो० कृष्णकान्त शर्मा, Ex- Dean Faculty of SVDV, Ex- Hony Director Malaviy bhavan, BHU

भगवन्तं विश्वेश्वरं प्रार्थये यदियंजाह्नवीजाह्नवीव सततं प्रवाहमाना लोककल्याणं साधयतु

 

Prof. K. R. Menon, Dean Faculty of Education, Co-ordinator UGC SAP (Edu)

 

आधुनिकरीत्या विज्ञानस्योपलब्धीनाम् उपयोगेन संस्कृतभाषायां जाह्नवी नाम्ना - त्रैमासिकी शोधपत्रिका प्रकाशतामेतीति ज्ञात्वा मोमुद्यते मे मनःअस्मिन् कर्मणि सर्वान् साधुवाक्यैः संभूष्य पत्रिकेयं निरन्तरं कौमुदीव सहृदयमनप्रह्लादनक्षमाभूय भगवन्तं सप्तगिरिसनाथं वेंकटेश्वरं संप्रार्थये

Prof Brajesha Kumar, Lucknow University

 

जाह्नवी पत्रिका केवलं  सामान्यच्छात्राणां कृते परमोपादेया भविष्यति  अपितु ये संस्कृतानुरागिणो वर्तन्ते  तेषां समेषां कृते  अवश्यमेव लाभप्रदो भवितुमर्हतीति मे मति

 

Prof Prema Kumar Sharma, HOD  Dpt. Jyotish, LBS New Delhi, Programa co-ordinator SAP DRS, Editor Vidyapith Panchang

 

सूचनाप्रौद्योगिके युगेऽस्मिन्नेतादृक् पत्रिकाया प्रकाशनं संस्कृतजिज्ञासूनां शोधछात्राणां कृते महदुपकाराय भवितेति मे विश्वासः

डा० के० आर० सूर्यनारायण, Dean, Faculty of Sahity & Saskriti, तिरुपति राष्ट्रीय संस्कृत विद्यापीठ मानित विश्वविद्यालयः

 

जाह्नवीनाम्नी त्रैमासिकी शोधपत्रिका जाह्नवीव आचन्द्रतारार्कं प्रचलतु, ज्ञानपिपासां पूरयन्तु….

Prof. T.V. Raghvacharyulu, तिरुपति राष्ट्रीय संस्कृत विद्यापीठ मानित विश्वविद्यालयः

बहूनां छात्राणां ऋषीणां गुरूणां आचार्याणामुपदेश परम्परागतानि तत्त्वानि सत्यवचनानि  जाह्नवी पत्रिकाद्वारा अन्तर्जाले निक्षिप्तानि  बहूनां छात्राणां शोधकर्तृणां चान्तोपयोगाय  भवेदिति विश्वस्मि

 

प्रो० सच्चिदानन्द मिश्रा, HOD, Faculty of samskritvidyadharmagam, BHU

 

जाह्नवी के प्रकाशन से संस्कृत वाङ्मय के दुर्लभ खजाने का लाभ सभी प्राप्त कर सकेंगे, यह परम सन्तोष का विषय है सम्पूर्ण दुनियाँ में इसके माध्यम से सही तथ्य प्रसारित हो सकेगा

Dr.Prabhat Kumar Mohapatra, HoD (Jyotish), Puri

गवेषणात्मिका पत्रिकेयं समेषां गवेषकानां मुन्नत्यै तथा जगतः श्रेयसे अग्रे सरिष्यतीति दृढं मे विश्वासः

 

प्रो० राधाकान्त ठाकुरः, Ex- Dean Faculty of Ved-Vedangas, तिरुपति राष्ट्रीय संस्कृत विद्यापीठ मानित विश्वविद्यालयः

 

संस्कृतसाहित्यसागरे विद्यमानानां ज्ञान रत्नानां प्रकाशनमियं जाह्नवी अभिनवशैल्या अति द्रुतगत्या सर्वत्र करिष्यतीति मे दृढो विश्वासः

डा० गिरिजा शंकर शास्त्री, HOD, Dpt Sanskrit, Ishvar Sharan Degree College, Allahabad

जाह्नवी संस्कृत -पत्रिका  उत्तरोत्तर् सफलता हेतु मेरी शुभकामनाएं...

 

 

श्रीपादनामा अभ्यंकरेत्युपाव्हः, मुम्बई स्थितः अभियान्त्रिकः

 

जाह्नवी पत्रिकायाःसुयशार्थे मम ईश्वरं प्रति  प्रार्थनाः, स्वकीयाः सदिच्छा सन्ति एव

 

श्रीमान् इन्दुशेखर झा, सेवानिवृत्त वरीयारक्षी-अधीक्षक, बिहार प्रशासनिक सेवा

 

जाह्नवी अपने उद्देश्यों में हमेशा सफल हो और बुद्धिजीवियों, ज्ञानपिपासुओं को हमेशा अपनी ज्ञानगङ्गा से तृप्त करे। मैं जाह्नवी के सदस्यों और इस पत्रिका के उज्ज्वल भविष्य की मङ्गल कामना करता हूँ।

 

           

Send your मङ्गलसन्देश to us- jahnavisanskritjournal@gmail.com